साण्टासुजनकस्य ख्रिस्तजन्मोत्सवः

डिसेम्बरमसस्य स्वच्छनीलाकाशयुक्तं रमणीयं दिनम् । वृक्षाः च तुहिनमणिडताः । वातावरणे जातोत्सवस्य सूचना । किन्तु साण्टासुजनकगृहे सर्वं शान्तम् आसीत । ख्रिस्तजातोत्सवाय उपहारसज्जा न प्रचलति स्म । यतो हि तत्र साण्टा अस्वस्थः अभवत्। 'अहो, दुःखकरम्, अस्मिन् वर्षे बालाः उपहारान् न प्राप्य किं वदेयुः ? इति साण्टा दुःखेन अचिन्तयत्। शय्यायां शयानः  सः सहसा बहिः शब्दम् अशृणेत्।  सः वातायनात् बहिः अपश्यत्। तत्र चत्वारः हिमहरिणाः सधैर्यं तिष्ठन्ति स्म, किन्तु ते दीर्घं श्वसन्ति स्म यथ तैः दीर्घा यात्रा पूर्णा कृता। सण्टा सन्निकृष्टदर्शनं कृतवान् ।

सः यत् अपश्यत् तत् विश्वसितुं न अशक्रोत्।हिमहरिणानां पृष्ठतः अचक्रयानानां पङ्किः बहुवर्णवेषान् बालकान् धारयन्ती आसीत्। एकैकशः ते तुषारे लम्फित्वा साण्टागृहं प्रति अगच्छन्ति स्म। अचिरं द्वारे ताडनशब्दः अभवत्। 'प्रविशत' इति सकुतूहलं साण्टा उदतरत्। प्रविष्टा कापि अल्पवयस्का बालिका। किमपि मृदु अाश्लिष्टम् आसीत् तस्याः हस्तयोः। स अभाषत, 'साण्टे !' मया श्रुतं यत् भवान् अस्वस्थः इति। अतः ददामि भवते ऊर्णभल्लूकं यः भवतः सहचरः भविष्यति।

'एम्मे ! भुशम् उपकृतः असिम्' इति साण्टा अबदत्। यतः सः प्रत्येकबालं नाम्ना अजानात्। ततः प्रविष्टः एकः लघु-बालकः यस्य हस्तयोः आसीत् रक्तावेष्ठनम्। सः अकथयत् 'सुजनकसाण्टे !'वयम् अजानाम यत् भवान् अस्वस्थः, तस्मात् पारवारः भवतः कृते कम्बलम् अरचयत् यन शीतदिनेषु भवान् औष्ण्यम् अनुभवेत्।

'अहो ! पोल, अतिहृदयस्पशीं भावः अयम्।साण्टा हसन् तस्य मस्तकं परामृशत्।एकैकशः सर्वे बालाः साण्टाद्वारेण प्रविश्य साण्टास्वास्थ्यम् इच्छन्तः विशेष - उपहारान् आनयन्।तत्र आसत् पिष्टकानि, पूरापूपाः, पादाच्छदाः, हस्तपाः, पुस्तकानि, चित्रखण्डप्रहेलिकाः च। एकः ख्रिस्तजन्मोत्सव - वृक्षः अपि तत्र आसीत्।

'मम द्वारदेशे अद्य जातोत्सवः' इति साण्टा उत्कणिठतः अवदत्। 'आगच्छन्तु वयं सर्वे एतान् डपहारान् विभजामः।' सः निजपरितः सर्वान् बालान् मण्डले समाह्वयत्। 'साण्टे ! कः उपहारः आधिकं रोचते भवते ?' इति एम्मा स्फुटस्वरेण अपृच्छत्। साण्टा स्मयमानः प्रत्यवदत् ! 'मम प्रियवत्साः अद्य युष्माकं मा प्रति सादच्छा, स्नेहः, दया एव श्रष्ठः उपहारः। सः वात्सल्यदृष्टया सार्वेषाम् उत्सुकमुखानिदृष्ट्वा अवदत् 'मम प्रियशिशवः ! ख्रिस्तजन्मोत्सवस्य अयमेव सत्यः अर्थः।' एवं कथयित्वा सः प्रत्येकशिशुं स्नेहोष्मणा आलिङ्गत्।

Terjemahan dalam bahasa Inggeris boleh diperolehi di sini.

Sumber:
  • Bookbinx Sanskrit, 20 Jun 2011 (youtube)
  • Bookbinx English, Santa's Christmas, (youtube)