चटका चटका

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||
नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि ।

विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता ॥
चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

मातापिरौ इह मम न स्तः एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिँव् चिँव् मित्र ददामि तुभ्यं बहुधान्यम् ॥

चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||
चणकं स्वीकुरु पिब रे नीरं त्वं पुनरपि रट चिँव् चिँव् चिँव् ।

तोषय मां कुरु मधुरालापं पाठय मामपि तव भाषाम् ॥
चटका, चटका, रे चटका चिँव्, चिँव् कूजसि त्वं विहगा ||

Sumber: EpiClips, 26 Ogos 2014 (Youtube)