विवेक मार्तण्ड

श्री गुरुं परमानन्दं वन्दे स्वानन्द विग्रहम्।
यस्य संनिध्य मात्रेण चिदानन्दायते तनुः॥१॥

अन्तर् निश्चलितात्म दीप कलिका स्वाधार बन्धादिभिः
यो योगी युग कल्प काल कलनात् त्वं जजेगीयते।
ज्ञानामोद महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त गुणाधिकं तम् अनिशं श्री मीननाथं भजे॥२॥

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्द कारकम्॥३॥

एतद् विमुक्ति सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो भोगादासक्तं परमात्मनि॥४॥

द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम्।
शमनं भव तापस्य योगं भजति सत्तमाः॥५॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्॥६॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश॥ ७॥

तपः सन्तोषास्तिक्यं दानमीश्वरपूजनम्।
सिद्धान्तश्रवणं चैव ह्रीमती च जपो हुतम् ॥ ८॥

नियम अथ वक्ष्यामि योगमष्टाङ्गसंयुतम्।
सयोगं योगमित्याहुर्जीवात्मपरमात्मनोः॥ ९॥

आसनानि तु तावन्ति यावत्यो जीवजातयः।
एतेषामखिलान् भेदान् विजानाति महेश्वरः॥१०॥

चतुराशीति लक्षाणां एकम् एकम् उदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥११॥

आसनेभ्यः समस्तेभ्यो द्वयम् एव प्रशस्यते।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥१२॥

योनि स्थानकम् अङ्घ्रि मूल घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष कवाट भेद जनकं सिद्धासनं प्रोच्यते॥१३॥

वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद् व्याधि विकार हारि यमिनां पद्मासनं प्रोच्यते॥१४॥

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
तृतीयम् मणिपूराक्यं चतुर्थं स्यदनाहतम्॥१५॥

पञ्चमं तु विशुद्धाख्यमाज्ञाचक्रं तु षष्ठकम्।
सप्तमं तु महाचक्रं ब्रह्मरन्ध्रे महापथे॥१६॥

चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षड्दलम्।
नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि॥ १७॥

कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा।
सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे॥ १८॥

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते॥१९॥

आधाराख्यं गुदस्थाने पङ्कजं च चतुर्दलम्।
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता॥२०॥

योनि मध्ये महा लिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥२१॥

तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्।
त्रिकोणं तत्पुरंवह्नेरधो मेढ्रात्प्रतिष्ठितम्॥२२॥

यत्समाधौ परं ज्योतिरनन्तं विश्वतो मुखम्।
तस्मिन् दृष्टे महा योगे यातायातं न विद्यते॥२३॥

दृष्टिः स्थिरा यस्य विनापि दृश्या
द्वायुः स्थिरो यस्य विनापि यत्नात्।
मनः स्थिरं यस्य विनाबलम्बवात्
स एव योगी स गुरूः स सेव्यः॥ २४॥

स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः।
स्वाधिष्ठानाश्रयस्तस्मान्मेढ्रमेवाभिधीयते॥२५॥

तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया।
तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम्॥२६॥

द्वादशारे महाचक्रे पुण्यपापविवर्जिते।
तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति॥२७॥

ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः॥२८॥

तेषु नाडि सहस्रेषु द्विसप्ततिरुदाहृताः।
प्रधानः प्राणवाहिन्यो भूयस्तासु दशस्मृताः॥२९॥

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी॥३०॥

Rujukan
  • Pengenalan mengenai Viveka Mārtaṇḍa by Northern Gate (blogspot)
  • Hatha Yoga Rāja, Gorakṣa Nāth and Nātha Sampradāya (blogspot)
  • Natha Tradition, Canada (online)